महामृत्युञ्जयस्तोत्रम्
अथ महामृत्युञ्जयस्तोत्रम्
नमो महामृत्युञ्जयाय ।
नन्दिकेश्वर उवाच
कैलासस्योत्तरे शृङ्गे शुद्धस्फटिकसन्निभे । तमोगुणविहीने तु जरामृत्युविवर्जिते॥१॥ सर्वतीर्थास्पदाधारे सर्वज्ञानकृतालये । कृताञ्जलिपुटो ब्रह्मा ध्यानशीलं सदाशिवम् ॥२॥ पप्रच्छ प्रणतो भूत्वा जानुभ्यामवनीं गतः । सर्वार्थसम्यगाधारं ब्रह्मा लोकपितामहः ॥३॥ ब्रह्मोवाच
केनोपायेन देवेश ! चिरायुर्लोमशोऽभवत् । तन्मे ब्रूहि महेशान ! लोकानां हितकाम्यया ॥४॥ श्रीसदाशिवः उवाच
शृणु ब्रह्मन् प्रवक्ष्यामि चिरायुर्मुनिसत्तमः।सञ्जातः कर्मणा येन व्याधिमृत्युविवर्जितः५॥ तस्मिन्नेकार्णवे घोरे सलिलौघपरिप्लुते । कृतान्तभयनाशाय स्तुतो मृत्युञ्जयः शिवः ॥६॥ तस्य संकीर्तनान्नित्यं मुनिर्मृत्युविर्जितः । तमेव कीर्तयन् ब्रह्मन् मृत्युञ्जेतुं न संशयः॥७॥
लोमश उवाच –
देवाधिदेव देवेश ! सर्वप्राणभृतांवर । प्राणिनामसि नाथस्त्वं मृत्युञ्जय नमोऽस्तु ते ॥८॥ देवानां जीवभूतोऽसि जीवो जीवस्य कारणम्।जगतां रक्षकस्त्वं वै मृत्युञ्जय नमोऽस्तुते९॥ हिमाद्रि शिखराकार सुधावीचिमनोहर । पुण्डरीक परं ज्योतिर्मृत्युञ्जय नमोऽस्तु ते ॥१०॥ ध्यानाधार महाज्ञान ! सर्वज्ञानैककारण । परित्राताऽसि लोकानां मृत्युंजय नमोऽस्तुते॥११॥ निहता येन कालेन सदेवासुरमानवाः । गन्धर्वाप्सरसश्चैव सिद्धविद्याधरास्तथा ॥१२॥ साध्याश्च वसवो रुद्रा तथाश्विनिसुतावुभौ।मरुतश्च दिशो नागाःस्थावरा जङ्गमास्तथा१३॥ अनङ्गेन मनोजेन पुष्पचापेन केवलम्।जितःसोऽपि त्वयाध्यानान्मृत्युञ्जय नमोऽस्तुते१४ ये ध्यायन्ति परां मूर्ति पूजयन्त्यमराधिप । न ते मृत्युवशं यान्ति मृत्युञ्जय नमोऽस्तुते१५ स्थावरे जङ्गमे वापि यावत्तिष्ठति मेदिनी।जीवतु इत्याह लोकोऽयं मृत्युञ्जय नमोऽस्तुते ॥१६॥ त्वमोंकारोऽसि वेदानां देवानाञ्च सदाशिवः।आधारशक्तिःशक्तीनां मृत्युञ्जय नमोऽस्तुते ॥१७॥सोमसूर्याग्नि मध्यस्थ व्योमव्यापिन् सदाशिव ! कालप्रद महाकाल मृत्युञ्जय नमोऽस्तुते ॥१८॥ प्रबुद्धे चाप्रबुद्धे च त्वमेव सृजते जगत् । सृष्टिरूपेण देवेश मृत्युञ्जय नमोऽस्तु ते ॥१९॥ व्योम्नि त्वं व्योमरूपोऽ सि तेजः सर्वत्र तेजसि । प्राणिनां ज्ञानरूपोऽसि मृत्युञ्जय नमोऽस्तु ते ॥२०॥ जगज्जीवो जगत्प्राणः स्रष्टा त्वं जगतः प्रभुः । कारणं सर्वतीर्थानां मृत्युञ्जय नमोऽस्तु ते ॥२१॥ नेता त्वमिन्द्रियाणाञ्च सर्वज्ञानप्रबोधक । सांख्ययोगश्च हंसश्च मृत्युञ्जय नमोऽस्तु ते ॥२२॥ रूपा तीतः सुरूपश्च पिण्डश्च पदमेव च । चतुर्युगकलाधार ! मृत्युञ्जय नमोऽस्तु ते ॥२३॥ रेचके वह्निरूपोऽसि सोमरूपोऽसि पूरके । कुम्भके शिवरूपोऽसि मृत्युञ्जय नमोऽस्तु ते ॥२४॥ क्षयंकरोऽसि पापानां पुण्यानामपि वर्द्धनः । हेतुस्त्वं श्रेयसा नित्यं मृत्युञ्जय नमोऽस्तु ते ॥२५॥ सर्वमायाकला तीत ! सर्वेन्द्रियपरावर ! सर्वेन्द्रियकलाधीश ! मृत्युञ्जय नमोऽस्तु ते ॥२६॥ रूपं गन्धो रसः स्पर्श: शब्दसंस्कार एव च । त्वत्तः प्रकाश एतेषां मृत्युञ्जय नमोऽस्तु ते ॥२७॥ चतुर्विधानां सृष्टीनां हेतुस्त्वं कारणेश्वर । भावाभावपरिच्छिन्न मृत्युञ्जय नमोऽस्तु ते ॥२८॥ त्वमेको निष्कलो लोके सकलं भुवनत्रयं । अतिसूक्ष्मातिरूपस्त्वं मृत्युञ्जय नमोऽस्तु ते ॥२९॥ त्वं प्रबोधस्त्वमाधारस्त्वद्बीजं भुवनत्रयं । सत्वं रजस्तमस्त्वं हि मृत्युञ्जय नमोऽस्तु ते ॥३०॥ त्वं सोमस्त्वं दिनेशश्च त्वमात्मा प्रकृतेः परः । अष्टत्रिंशत्कलानाथ मृत्युञ्जय नमोऽस्तु ते ॥३१॥ सर्वेन्द्रियाणामाधार ! सर्वभूतगुहाशय ! सर्वज्ञानमयानन्त मृत्युञ्जय नमोऽस्तु ते ॥३२॥ त्वमात्मा सर्वभूतानां गुणानां त्वमधीश्वरः । सर्वानन्दमयाधार ! मृत्युञ्जय नमोऽस्तु ते ॥३३॥ त्वं यज्ञः सर्वयज्ञानां त्वं बुद्धिर्बोधलक्षणा । शब्दब्रह्म त्वमोङ्कारो मृत्युञ्जय नमोऽस्तु ते ॥३४॥ श्रीसदाशिव उवाच – एवं संकीर्तयेद्यस्तु शुचिस्तद्गतमानसः । भक्त्या शृणोति यो ब्रह्मन् न स मृत्युवशो भवेत् ॥३५॥ न तु मृत्युभयं तस्य प्राप्तकालं च लंघयेत् । अपमृत्युभयं तस्य प्रणश्यति न संशयः ॥३६॥ व्याधयो नो प्रपद्यन्ते नोपसर्गभयं क्वचित् । प्रत्यासन्नान्तरे काले शतैकावर्तने कृते ॥३७॥ मृत्युर्न जायते तस्य रोगान्मुञ्चति निश्चितम्।पञ्चम्यां वा दशम्यां वा पौर्णमास्यामथापि वा॥३८॥ शतमावर्तयेद्यस्तु शतवर्षं स जीवति । तेजस्वी बलसम्पन्नो लभते श्रियमुत्तमाम् ॥३९॥ त्रिविधं नाशयेत्पापं मनोवाक्कायसम्भवम् । अभिचाराणि सर्वाणि कर्माण्याथर्वणानि च ॥ क्षीयन्ते नात्र सन्देहो दुःस्वप्नं च विनश्यति ॥४०॥ इदं रहस्यं परमं देवदेवस्य शूलिनः । दुःखप्रणाशनं पुण्यं सर्वविघ्नविनाशनम् ॥४१॥ इति श्रीब्रह्मसंवादे श्रीमहामृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥











Leave a Reply