श्रीहनुमदष्टोत्तरशतनामस्तोत्रनामावलिः
अथ श्रीहनुमदष्टोत्तरशतनामस्तोत्रनामावलिः श्रीपराशर उवाच ।अन्यस्तोत्रं प्रवक्ष्यामि रामप्रोक्तं महामुने । अष्टोत्तरशतं नाम्नां हनुमत्प्रतिपादकम् ॥ ॐ अस्य हनुमदष्टोत्तरशत दिव्यनामस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः । अनुष्टुप्छन्दः । श्रीहनुमान् देवता । मारुतात्मज इति बीजम् । अञ्जनासूनुरिति शक्तिः । वायुपुत्रेति कीलकम् । मम श्रीहनुमत्प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥नमस्तस्मै हनुमते येन तीर्णो महार्णवः । रामलक्ष्मणसीताप्युत्तीर्णशोकमहार्णवः ॥सप्तषष्टिर्हितां कोटि वानराणां तरस्विनाम् । यस्समुज्जीवयामास तं वन्दे मारुतात्मजम् ॥यो दक्षिणां दिशं गत्वा वैदेहीं राममुद्रया ।अजीवयत्तममृतं प्रपद्ये पवनात्मजम् ॥
इतिहासपुराणेषु प्रकीर्णानामितस्ततः । शतमष्टोत्तरं नाम्नां सङ्ग्रहिष्ये हनूमतः ॥
श्रीरामचन्द्र उवाच ।ॐ आयुष्मते नमः । ॐ अप्रमेयात्मने नमः । ॐ हनुमते नमः नमः । ॐ मारुतात्मजाय ऽञ्जनातनयाय श्रीमते नमः । ॐ बालार्कफलभुक्धिये नमः ।
ॐ सूर्यपृष्ठगमनाय पुण्याय नमः । ॐ सर्वशास्त्रार्थतत्त्वविदे नमः । ॐ बहुश्रुतव्याकरणाय नमः । ॐ रामसुग्रीवसख्यकृते नमः । ॐ रामदासाय नमः । ॐ रामदूताय नमः । ॐ
रामात्मने नमः । ॐ रामदैवताय नमः । ॐ रामभक्ताय नमः । ॐ रामसखाय नमः । ॐ
रामनिधये नमः । ॐ रामहर्षणाय नमः । ॐ महानुभावाय नमः । ॐ मेधाविने नमः ।
ॐ महेन्द्रगिरिमर्दनाय नमः । ॐ मैनाकमानिताय नमः । ॐ मान्याय नमः ।
ॐ महोत्साहाय नमः । ॐ महाबलाय नमः । ॐ देवमाताहृन्निवहाय नमः ।
ॐ गोष्पदीकृतवारिधये नमः । ॐ लङ्काद्वीपविचित्राङ्गाय नमः ।
ॐ तान्वेषणकोविदाय नमः। ॐ सीतादर्शनसन्तुष्टाय नमः। ॐ रामपत्नीप्रियंवदाय नमः । ॐ दशकण्ठशिरच्छेत्रे नमः । ॐ स्तुततार्क्ष्याय नमः । ॐ अभिदर्शनाय नमः । ॐ धीराय नमः । ॐ काञ्चनवर्णाङ्गाय नमः । ॐ तरुणार्कनिभाय नमः । ॐ दीप्तानलार्चिषे नमः ।
ॐ द्युतिमते नमः । ॐ वज्रदंष्ट्राय नमः । ॐ नखायुधाय नमः । ॐ मेरुमन्दरसङ्काशाय नमः । ॐ विद्रुमप्रतिमाननाय नमः । ॐ समर्थाय नमः । ॐ विश्रान्ताय नमः । ॐ दुर्धर्षाय नमः । ॐ शत्रुकम्पनाय नमः । ॐ अशोकवनिकाच्छेत्रे नमः। ॐ वीरकिङ्करसूदनाय नमः । ॐ चैत्यप्रासादविध्वंसिने नमः । ॐ जम्बुमालीनिषूदनाय नमः । ॐ सीताप्रसादकाय नमः । ॐ शौरये वस्त्रलाङ्गूलपावकाय नमः । ॐ दग्धलङ्काय नमः । ॐ अप्रमेयात्मने नमः ।ॐ महाजीमूतनिस्वनाय नमः ।
ॐ संस्कारसम्पन्नवचसे नमः । ॐ विभीषणविशोककृते नमः ।
ॐ मुष्टिपिष्टदशास्याङ्गाय नमः । ॐ लक्ष्मणोद्वाहनप्रियाय नमः । ॐ धूम्राक्षघ्ने नमः ।
ॐ अकम्पनध्ने नमः । ॐ त्रिशिरध्ने नमः । ॐ निकुम्भध्ने नमः ।
ॐ पापराक्षससङ्घध्नाय नमः । ॐ पापनाशनकीर्तनाय नमः । ॐ मृतसञ्जीवनाय नमः । ॐ योगिने नमः । ॐ विष्णुचक्रपराक्रमाय नमः ।ॐ हस्तन्यस्तौषधिगिरये नमः ।
ॐ चतुर्वर्गफलप्रदाय नमः । ॐ लक्ष्मणोज्जीवनाय नमः । ॐ श्लाध्याय नमः ।
ॐ लक्ष्मणार्थहृतौषधये नमः । ॐ दशग्रीववधोद्योगिने नमः । ॐ सीतानुग्रहभाजनाय नमः । ॐ रामं प्रत्यागताय नमः । ॐ दिव्याय नमः । ॐ वैदेहीदत्तभूषणाय नमः ।
ॐ रामाद्भुतयशस्तम्भाय नमः । ॐ यावद्रामकथास्थिताय नमः । ॐ निष्कल्मषाय नमः । ॐ ब्रह्मचारिणे नमः । ॐ विद्युत्सङ्घातपिङ्गलाय नमः । ॐ कदलीवनमध्यस्थाय नमः । ॐ महालक्ष्मीसमाश्रयाय नमः । ॐ भीमनिष्कम्पनाय नमः । ॐ भीमाय नमः ।
ॐ अव्यग्राय नमः । ॐ भीमसेनाग्रजाय नमः । ॐ युगाय नमः । ॐ धनञ्जयरथारूढाय नमः । ॐ शिवभक्ताय नमः । ॐ शिवप्रियाय नमः । ॐ चूर्णीकृताक्षदेहाय नमः ।
ॐ ज्वलिताग्निनिभाननाय नमः । ॐ पिङ्गाक्षाय नमः । ॐ विभवे आक्लान्ताय नमः ।
ॐ लङ्किणीप्राणघातकाय नमः । ॐ पुच्छाग्निदग्धलङ्काय नमः । ॐ माल्यवत्प्राणहारिणे नमः । ॐ श्रीप्रदाय नमः । ॐ अनिलसूनवे नमः । ॐ वाग्मिने वानरनायकाय नमः ॥ इत्येवं कीर्तनं यस्य नाम्नामष्टोत्तरं शतम् ।पुण्यं पवनपुत्रस्य पावनं परिकीर्तनम् ॥ कीर्तयन् श्रावयन् शृण्वन् आयुष्मत्तामरोगताम् । विष्णुभक्तिं श्रियं दीप्तिं प्राप्नोत्येव परायणः ॥ महाभयेषु युद्धेषु चोरव्यालमृगेषु च । जपतां कुरुते नित्यं भगवान् पवनात्मजः ॥ ॥ इति श्रीरामप्रोक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रनामावलिः सम्पूर्णा ॥











Leave a Reply